ऋग्वेद · अध्याय 10.112
इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः ।
हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या3 प्र ब्रवाम ॥
यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि ।
तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर् मन्दमानः ॥
हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वं स्पर्शयस्व ।
अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा निषद्य ॥
यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् ।
तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ ॥
यस्य शश्वत् पपिवाँ इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ ।
स ते पुरंधिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः ॥
इदं ते पात्रं सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो ।
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इद् अभिहर्यन्ति देवाः ॥
वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते ।
अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य ॥
प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचम् प्रथमा कृतानि ।
सतीनमन्युर् अश्रथायो अद्रिं सुवेदनाम् अकृणोर् ब्रह्मणे गाम् ॥
नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं कवीनाम् ।
न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च ॥
अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् ।
रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0