ऋग्वेद · अध्याय 10.111
मनीषिणः प्र भरध्वम् मनीषां यथा-यथा मतयः सन्ति नृणाम् ।
इन्द्रं सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर् विदानः ॥
ऋतस्य हि सदसो धीतिर् अद्यौत् सं गार्ष्टेयो वृषभो गोभिर् आनट् ।
उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सं विव्याचा रजांसि ॥
इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय ।
आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः ॥
इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् अङ्गिरोभिर् गृणानः ।
पुरूणि चिन् नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥
इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् ।
महीं चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन स्कभीयान् ॥
वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य मायाः ।
वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन् बाह्वोजाः ॥
सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् ।
आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद ॥
दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः ।
क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम् अन्तः ॥
सृजः सिन्धूँर् अहिना जग्रसानाँ आद् इद् एताः प्र विविज्रे जवेन ।
मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः ॥
सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः पूर्भिद् आसाम् ।
अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0