भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.110

10.110.01

समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥

10.110.02

तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व ।
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥

10.110.03

आजुह्वान ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः ।
त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥

10.110.04

प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् ।
व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥

10.110.05

व्यचस्वतीर् उर्विया वि श्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

10.110.06

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥

10.110.07

दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञम् मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥

10.110.08

आ नो यज्ञम् भारती तूयम् एत्व् इळा मनुष्वद् इह चेतयन्ती ।
तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वती स्वपसः सदन्तु ॥

10.110.09

य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा ।
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥

10.110.10

उपावसृज त्मन्या समञ्जन् देवानाम् पाथ ऋतुथा हवींषि ।
वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् मधुना घृतेन ॥

10.110.11

सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc