भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.109

10.109.01

ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपारः सलिलो मातरिश्वा ।
वीळुहरास् तप उग्रो मयोभूर् आपो देवीः प्रथमजा ऋतेन ॥

10.109.02

सोमो राजा प्रथमो ब्रह्मजायाम् पुनः प्रायच्छद् अहृणीयमानः ।
अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ॥

10.109.03

हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेयम् इति चेद् अवोचन् ।
न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥

10.109.04

देवा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसे ये निषेदुः ।
भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥

10.109.05

ब्रह्मचारी चरति वेविषद् विषः स देवानाम् भवत्य् एकम् अङ्गम् ।
तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्व1ं न देवाः ॥

10.109.06

पुनर् वै देवा अददुः पुनर् मनुष्या उत ।
राजानः सत्यं कृण्वाना ब्रह्मजायाम् पुनर् ददुः ॥

10.109.07

पुनर्दाय ब्रह्मजायां कृत्वी देवैर् निकिल्बिषम् ।
ऊर्जम् पृथिव्या भक्त्वायोरुगायम् उपासते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc