भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.107

10.107.01

आविर् अभून् महि माघोनम् एषां विश्वं जीवं तमसो निर् अमोचि ।
महि ज्योतिः पितृभिर् दत्तम् आगाद् उरुः पन्था दक्षिणाया अदर्शि ॥

10.107.02

उच्चा दिवि दक्षिणावन्तो अस्थुर् ये अश्वदाः सह ते सूर्येण ।
हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥

10.107.03

दैवी पूर्तिर् दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति ।
अथा नरः प्रयतदक्षिणासो ऽवद्यभिया बहवः पृणन्ति ॥

10.107.04

शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते हविः ।
ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥

10.107.05

दक्षिणावान् प्रथमो हूत एति दक्षिणावान् ग्रामणीर् अग्रम् एति ।
तम् एव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणाम् आविवाय ॥

10.107.06

तम् एव ऋषिं तम् उ ब्रह्माणम् आहुर् यज्ञन्यं सामगाम् उक्थशासम् ।
स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥

10.107.07

दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रम् उत यद् धिरण्यम् ।
दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥

10.107.08

न भोजा मम्रुर् न न्यर्थम् ईयुर् न रिष्यन्ति न व्यथन्ते ह भोजाः ।
इदं यद् विश्वम् भुवनं स्वश् चैतत् सर्वं दक्षिणैभ्यो ददाति ॥

10.107.09

भोजा जिग्युः सुरभिं योनिम् अग्रे भोजा जिग्युर् वध्व1ं या सुवासाः ।
भोजा जिग्युर् अन्तःपेयं सुराया भोजा जिग्युर् ये अहूताः प्रयन्ति ॥

10.107.10

भोजायाश्वं सम् मृजन्त्य् आशुम् भोजायास्ते कन्या3 शुम्भमाना ।
भोजस्येदम् पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥

10.107.11

भोजम् अश्वाः सुष्ठुवाहो वहन्ति सुवृद् रथो वर्तते दक्षिणायाः ।
भोजं देवासो ऽवता भरेषु भोजः शत्रून् समनीकेषु जेता ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc