ऋग्वेद · अध्याय 10.108
किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः ।
कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि ॥
इन्द्रस्य दूतीर् इषिता चरामि मह इच्छन्ती पणयो निधीन् वः ।
अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयांसि ॥
कीदृङ्ङ् इन्द्रः सरमे का दृशीका यस्येदं दूतीर् असरः पराकात् ।
आ च गच्छान् मित्रम् एना दधामाथा गवां गोपतिर् नो भवाति ॥
नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीर् असरम् पराकात् ।
न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥
इमा गावः सरमे या ऐच्छः परि दिवो अन्तान् सुभगे पतन्ती ।
कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा ॥
असेन्या वः पणयो वचांस्य् अनिषव्यास् तन्वः सन्तु पापीः ।
अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न मृळात् ॥
अयं निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर् न्यृष्टः ।
रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् आ जगन्थ ॥
एह गमन्न् ऋषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः ।
त एतम् ऊर्वं वि भजन्त गोनाम् अथैतद् वचः पणयो वमन्न् इत् ॥
एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन ।
स्वसारं त्वा कृणवै मा पुनर् गा अप ते गवां सुभगे भजाम ॥
नाहं वेद भ्रातृत्वं नो स्वसृत्वम् इन्द्रो विदुर् अङ्गिरसश् च घोराः ।
गोकामा मे अच्छदयन् यद् आयम् अपात इत पणयो वरीयः ॥
दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन ।
बृहस्पतिर् या अविन्दन् निगूळ्हाः सोमो ग्रावाण ऋषयश् च विप्राः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0