भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.106

10.106.01

उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव ।
सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तंसयेथे ॥

10.106.02

उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर् एथः ।
दूतेव हि ष्ठो यशसा जनेषु माप स्थातम् महिषेवावपानात् ॥

10.106.03

साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् आ गमिष्टम् ।
अग्निर् इव देवयोर् दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥

10.106.04

आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै ।
इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् आ गमिष्टम् ॥

10.106.05

वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता ।
वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या3 पुरीषा ॥

10.106.06

सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका ।
उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु ॥

10.106.07

पज्रेव चर्चरं जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा ।
ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत् क्षयद् रयीणाम् ॥

10.106.08

घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् ।
पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या3 न जग्मी ॥

10.106.09

बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधं तरते विदाथः ।
कर्णेव शासुर् अनु हि स्मराथो ऽंशेव नो भजतं चित्रम् अप्नः ॥

10.106.10

आरङ्गरेव मध्व् एरयेथे सारघेव गवि नीचीनबारे ।
कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात् सचेथे ॥

10.106.11

ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप यातम् ।
यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः कामम् अप्राः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc