ऋग्वेद · अध्याय 10.105
कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः ।
दीर्घं सुतं वाताप्याय ॥
हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा ।
उभा रजी न केशिना पतिर् दन् ॥
अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् ।
शुभे यद् युयुजे तविषीवान् ॥
सचायोर् इन्द्रश् चर्कृष आँ उपानसः सपर्यन् ।
नदयोर् विव्रतयोः शूर इन्द्रः ॥
अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै ।
वनोति शिप्राभ्यां शिप्रिणीवान् ॥
प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा ।
ऋभुर् न क्रतुभिर् मातरिश्वा ॥
वज्रं यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् ।
अरुतहनुर् अद्भुतं न रजः ॥
अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः ।
नाब्रह्मा यज्ञ ऋधग् जोषति त्वे ॥
ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् ।
सजूर् नावं स्वयशसं सचायोः ॥
श्रिये ते पृश्निर् उपसेचनी भूच् छ्रिये दर्विर् अरेपाः ।
यया स्वे पात्रे सिञ्चस उत् ॥
शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् ।
आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0