भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.090

10.090.01

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥

10.090.02

पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् ।
उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥

10.090.03

एतावान् अस्य महिमातो ज्यायाँश् च पूरुषः ।
पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥

10.090.04

त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्य् अक्रामत् साशनानशने अभि ॥

10.090.05

तस्माद् विराळ् अजायत विराजो अधि पूरुषः ।
स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥

10.090.06

यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत ।
वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ॥

10.090.07

तं यज्ञम् बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश् च ये ॥

10.090.08

तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् ।
पशून् ताँश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ॥

10.090.09

तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥

10.090.10

तस्माद् अश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ॥

10.090.11

यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् ।
मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ॥

10.090.12

ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः ।
ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥

10.090.13

चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत ।
मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥

10.090.14

नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत ।
पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकाँ अकल्पयन् ॥

10.090.15

सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषम् पशुम् ॥

10.090.16

यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc