ऋग्वेद · अध्याय 10.089
इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् ।
आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥
स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा ।
अतिष्ठन्तम् अपस्य1ं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥
समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् ।
वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे ॥
इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् ।
यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम् ॥
आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाञ् छरुमाँ ऋजीषी ।
सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः ।
यद् अस्य मन्युर् अधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥
जघान वृत्रं स्वधितिर् वनेव रुरोज पुरो अरदन् न सिन्धून् ।
बिभेद गिरिं नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत स्वयुग्भिः ॥
त्वं ह त्यद् ऋणया इन्द्र धीरो ऽसिर् न पर्व वृजिना शृणासि ।
प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥
प्र ये मित्रम् प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणम् मिनन्ति ।
न्य् अ1मित्रेषु वधम् इन्द्र तुम्रं वृषन् वृषाणम् अरुषं शिशीहि ॥
इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत् पर्वतानाम् ।
इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य इन्द्रः ॥
प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र समुद्रस्य धासेः ।
प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥
प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः ।
अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान् ॥
अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः ।
अन्व् इन्द्रं रोदसी वावशाने अन्व् आपो अजिहत जायमानम् ॥
कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् ।
मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते ॥
शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास इन्द्र ।
अन्धेनामित्रास् तमसा सचन्तां सुज्योतिषो अक्तवस् ताँ अभि ष्युः ॥
पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम् ऋषीणाम् ।
इमाम् आघोषन्न् अवसा सहूतिं तिरो विश्वाँ अर्चतो याह्य् अर्वाङ् ॥
एवा ते वयम् इन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् ।
विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥
शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0