ऋग्वेद · अध्याय 10.091
सं जागृवद्भिर् जरमाण इध्यते दमे दमूना इषयन्न् इळस् पदे ।
विश्वस्य होता हविषो वरेण्यो विभुर् विभावा सुषखा सखीयते ॥
स दर्शतश्रीर् अतिथिर् गृहे-गृहे वने-वने शिश्रिये तक्ववीर् इव ।
जनं-जनं जन्यो नाति मन्यते विश आ क्षेति विश्यो3 विशं-विशम् ॥
सुदक्षो दक्षैः क्रतुनासि सुक्रतुर् अग्ने कविः काव्येनासि विश्ववित् ।
वसुर् वसूनां क्षयसि त्वम् एक इद् द्यावा च यानि पृथिवी च पुष्यतः ॥
प्रजानन्न् अग्ने तव योनिम् ऋत्वियम् इळायास् पदे घृतवन्तम् आसदः ।
आ ते चिकित्र उषसाम् इवेतयो ऽरेपसः सूर्यस्येव रश्मयः ॥
तव श्रियो वर्ष्यस्येव विद्युतश् चित्राश् चिकित्र उषसां न केतवः ।
यद् ओषधीर् अभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नम् आस्ये ॥
तम् ओषधीर् दधिरे गर्भम् ऋत्वियं तम् आपो अग्निं जनयन्त मातरः ।
तम् इत् समानं वनिनश् च वीरुधो ऽन्तर्वतीश् च सुवते च विश्वहा ॥
वातोपधूत इषितो वशाँ अनु तृषु यद् अन्ना वेविषद् वितिष्ठसे ।
आ ते यतन्ते रथ्यो3 यथा पृथक् छर्धांस्य् अग्ने अजराणि धक्षतः ॥
मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारम् परिभूतमम् मतिम् ।
तम् इद् अर्भे हविष्य् आ समानम् इत् तम् इन् महे वृणते नान्यं त्वत् ॥
त्वाम् इद् अत्र वृणते त्वायवो होतारम् अग्ने विदथेषु वेधसः ।
यद् देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥
तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः ।
तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥
यस् तुभ्यम् अग्ने अमृताय मर्त्यः समिधा दाशद् उत वा हविष्कृति ।
तस्य होता भवसि यासि दूत्य1म् उप ब्रूषे यजस्य् अध्वरीयसि ॥
इमा अस्मै मतयो वाचो अस्मद् आँ ऋचो गिरः सुष्टुतयः सम् अग्मत ।
वसूयवो वसवे जातवेदसे वृद्धासु चिद् वर्धनो यासु चाकनत् ॥
इमाम् प्रत्नाय सुष्टुतिं नवीयसीं वोचेयम् अस्मा उशते शृणोतु नः ।
भूया अन्तरा हृद्य् अस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥
यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिं रयिम् अस्मे सुवीरम् प्रशस्तं धेहि यशसम् बृहन्तम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0