ऋग्वेद · अध्याय 10.088
हविष् पान्तम् अजरं स्वर्विदि दिविस्पृश्य् आहुतं जुष्टम् अग्नौ ।
तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥
गीर्णम् भुवनं तमसापगूळ्हम् आविः स्वर् अभवज् जाते अग्नौ ।
तस्य देवाः पृथिवी द्यौर् उतापो ऽरणयन्न् ओषधीः सख्ये अस्य ॥
देवेभिर् न्व् इषितो यज्ञियेभिर् अग्निं स्तोषाण्य् अजरम् बृहन्तम् ।
यो भानुना पृथिवीं द्याम् उतेमाम् आततान रोदसी अन्तरिक्षम् ॥
यो होतासीत् प्रथमो देवजुष्टो यं समाञ्जन्न् आज्येना वृणानाः ।
स पतत्रीत्वरं स्था जगद् यच् छ्वात्रम् अग्निर् अकृणोज् जातवेदाः ॥
यज् जातवेदो भुवनस्य मूर्धन्न् अतिष्ठो अग्ने सह रोचनेन ।
तं त्वाहेम मतिभिर् गीर्भिर् उक्थैः स यज्ञियो अभवो रोदसिप्राः ॥
मूर्धा भुवो भवति नक्तम् अग्निस् ततः सूर्यो जायते प्रातर् उद्यन् ।
मायाम् ऊ तु यज्ञियानाम् एताम् अपो यत् तूर्णिश् चरति प्रजानन् ॥
दृशेन्यो यो महिना समिद्धो ऽरोचत दिवियोनिर् विभावा ।
तस्मिन्न् अग्नौ सूक्तवाकेन देवा हविर् विश्व आजुहवुस् तनूपाः ॥
सूक्तवाकम् प्रथमम् आद् इद् अग्निम् आद् इद् धविर् अजनयन्त देवाः ।
स एषां यज्ञो अभवत् तनूपास् तं द्यौर् वेद तम् पृथिवी तम् आपः ॥
यं देवासो ऽजनयन्ताग्निं यस्मिन्न् आजुहवुर् भुवनानि विश्वा ।
सो अर्चिषा पृथिवीं द्याम् उतेमाम् ऋजूयमानो अतपन् महित्वा ॥
स्तोमेन हि दिवि देवासो अग्निम् अजीजनञ् छक्तिभी रोदसिप्राम् ।
तम् ऊ अकृण्वन् त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥
यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् ।
यदा चरिष्णू मिथुनाव् अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा ॥
विश्वस्मा अग्निम् भुवनाय देवा वैश्वानरं केतुम् अह्नाम् अकृण्वन् ।
आ यस् ततानोषसो विभातीर् अपो ऊर्णोति तमो अर्चिषा यन् ॥
वैश्वानरं कवयो यज्ञियासो ऽग्निं देवा अजनयन्न् अजुर्यम् ।
नक्षत्रम् प्रत्नम् अमिनच् चरिष्णु यक्षस्याध्यक्षं तविषम् बृहन्तम् ॥
वैश्वानरं विश्वहा दीदिवांसम् मन्त्रैर् अग्निं कविम् अच्छा वदामः ।
यो महिम्ना परिबभूवोर्वी उतावस्ताद् उत देवः परस्तात् ॥
द्वे स्रुती अशृणवम् पितॄणाम् अहं देवानाम् उत मर्त्यानाम् ।
ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरम् मातरं च ॥
द्वे समीची बिभृतश् चरन्तं शीर्षतो जातम् मनसा विमृष्टम् ।
स प्रत्यङ् विश्वा भुवनानि तस्थाव् अप्रयुच्छन् तरणिर् भ्राजमानः ॥
यत्रा वदेते अवरः परश् च यज्ञन्योः कतरो नौ वि वेद ।
आ शेकुर् इत् सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥
कत्य् अग्नयः कति सूर्यासः कत्य् उषासः कत्य् उ स्विद् आपः ।
नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥
यावन्मात्रम् उषसो न प्रतीकं सुपर्ण्यो3 वसते मातरिश्वः ।
तावद् दधात्य् उप यज्ञम् आयन् ब्राह्मणो होतुर् अवरो निषीदन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0