ऋग्वेद · अध्याय 10.087
रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म ।
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥
अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।
आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि धत्स्वासन् ॥
उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम् परं च ।
उतान्तरिक्षे परि याहि राजञ् जम्भैः सं धेह्य् अभि यातुधानान् ॥
यज्ञैर् इषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर् दिहानः ।
ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ॥
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् ।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोतु वृक्णम् ॥
यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् ।
यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा शिशानः ॥
उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर् यातुधानात् ।
अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥
इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति ।
तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ॥
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञम् प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
हिंस्रं रक्षांस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना नृचक्षः ॥
नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा ।
तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥
त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति ।
तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि ॥
तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् ।
अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्य् ओष ॥
यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः ।
मन्योर् मनसः शरव्या3 जायते या तया विध्य हृदये यातुधानान् ॥
परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवाञ् छृणीहि परासुतृपो अभि शोशुचानः ॥
पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु तृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ॥
संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः ।
पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥
विषं गवां यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये दुरेवाः ।
परैनान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ॥
सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥
त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् ।
प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥
पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् ।
सखे सखायम् अजरो जरिम्णे ऽग्ने मर्ताँ अमर्त्यस् त्वं नः ॥
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवे-दिवे हन्तारम् भङ्गुरावताम् ॥
विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह ।
अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः ॥
प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना ।
सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः ॥
प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति ।
यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0