ऋग्वेद · अध्याय 10.086
वि हि सोतोर् असृक्षत नेन्द्रं देवम् अमंसत ।
यत्रामदद् वृषाकपिर् अर्यः पुष्टेषु मत्सखा विश्वस्माद् इन्द्र उत्तरः ॥
परा हीन्द्र धावसि वृषाकपेर् अति व्यथिः ।
नो अह प्र विन्दस्य् अन्यत्र सोमपीतये विश्वस्माद् इन्द्र उत्तरः ॥
किम् अयं त्वां वृषाकपिश् चकार हरितो मृगः ।
यस्मा इरस्यसीद् उ न्व् अ1र्यो वा पुष्टिमद् वसु विश्वस्माद् इन्द्र उत्तरः ॥
यम् इमं त्वं वृषाकपिम् प्रियम् इन्द्राभिरक्षसि ।
श्वा न्व् अस्य जम्भिषद् अपि कर्णे वराहयुर् विश्वस्माद् इन्द्र उत्तरः ॥
प्रिया तष्टानि मे कपिर् व्यक्ता व्य् अदूदुषत् ।
शिरो न्व् अस्य राविषं न सुगं दुष्कृते भुवं विश्वस्माद् इन्द्र उत्तरः ॥
न मत् स्त्री सुभसत्तरा न सुयाशुतरा भुवत् ।
न मत् प्रतिच्यवीयसी न सक्थ्य् उद्यमीयसी विश्वस्माद् इन्द्र उत्तरः ॥
उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति ।
भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्माद् इन्द्र उत्तरः ॥
किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
किं शूरपत्नि नस् त्वम् अभ्य् अमीषि वृषाकपिं विश्वस्माद् इन्द्र उत्तरः ॥
अवीराम् इव माम् अयं शरारुर् अभि मन्यते ।
उताहम् अस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्माद् इन्द्र उत्तरः ॥
संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।
वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्माद् इन्द्र उत्तरः ॥
इन्द्राणीम् आसु नारिषु सुभगाम् अहम् अश्रवम् ।
नह्य् अस्या अपरं चन जरसा मरते पतिर् विश्वस्माद् इन्द्र उत्तरः ॥
नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते ।
यस्येदम् अप्यं हविः प्रियं देवेषु गच्छति विश्वस्माद् इन्द्र उत्तरः ॥
वृषाकपायि रेवति सुपुत्र आद् उ सुस्नुषे ।
घसत् त इन्द्र उक्षणः प्रियं काचित्करं हविर् विश्वस्माद् इन्द्र उत्तरः ॥
उक्ष्णो हि मे पञ्चदश साकम् पचन्ति विंशतिम् ।
उताहम् अद्मि पीव इद् उभा कुक्षी पृणन्ति मे विश्वस्माद् इन्द्र उत्तरः ॥
वृषभो न तिग्मशृङ्गो ऽन्तर् यूथेषु रोरुवत् ।
मन्थस् त इन्द्र शं हृदे यं ते सुनोति भावयुर् विश्वस्माद् इन्द्र उत्तरः ॥
न सेशे यस्य रम्बते ऽन्तरा सक्थ्या3 कपृत् ।
सेद् ईशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्माद् इन्द्र उत्तरः ॥
न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
सेद् ईशे यस्य रम्बते ऽन्तरा सक्थ्या3 कपृद् विश्वस्माद् इन्द्र उत्तरः ॥
अयम् इन्द्र वृषाकपिः परस्वन्तं हतं विदत् ।
असिं सूनां नवं चरुम् आद् एधस्यान आचितं विश्वस्माद् इन्द्र उत्तरः ॥
अयम् एमि विचाकशद् विचिन्वन् दासम् आर्यम् ।
पिबामि पाकसुत्वनो ऽभि धीरम् अचाकशं विश्वस्माद् इन्द्र उत्तरः ॥
धन्व च यत् कृन्तत्रं च कति स्वित् ता वि योजना ।
नेदीयसो वृषाकपे ऽस्तम् एहि गृहाँ उप विश्वस्माद् इन्द्र उत्तरः ॥
पुनर् एहि वृषाकपे सुविता कल्पयावहै ।
य एष स्वप्ननंशनो ऽस्तम् एषि पथा पुनर् विश्वस्माद् इन्द्र उत्तरः ॥
यद् उदञ्चो वृषाकपे गृहम् इन्द्राजगन्तन ।
क्व1 स्य पुल्वघो मृगः कम् अगञ् जनयोपनो विश्वस्माद् इन्द्र उत्तरः ॥
पर्शुर् ह नाम मानवी साकं ससूव विंशतिम् ।
भद्रम् भल त्यस्या अभूद् यस्या उदरम् आमयद् विश्वस्माद् इन्द्र उत्तरः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0