भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.085

10.085.01

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ॥

10.085.02

सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ॥

10.085.03

सोमम् मन्यते पपिवान् यत् सम्पिंषन्त्य् ओषधिम् ।
सोमं यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन ॥

10.085.04

आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः ।
ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥

10.085.05

यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।
वायुः सोमस्य रक्षिता समानाम् मास आकृतिः ॥

10.085.06

रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी ।
सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम् ॥

10.085.07

चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् ।
द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ॥

10.085.08

स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ॥

10.085.09

सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा ।
सूर्यां यत् पत्ये शंसन्तीम् मनसा सविताददात् ॥

10.085.10

मनो अस्या अन आसीद् द्यौर् आसीद् उत च्छदिः ।
शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या गृहम् ॥

10.085.11

ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः ।
श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश् चराचारः ॥

10.085.12

शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ॥

10.085.13

सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् ।
अघासु हन्यन्ते गावो ऽर्जुन्योः पर्य् उह्यते ॥

10.085.14

यद् अश्विना पृच्छमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः ।
विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत पूषा ॥

10.085.15

यद् अयातं शुभस् पती वरेयं सूर्याम् उप ।
क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥

10.085.16

द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥

10.085.17

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्य प्रचेतस इदं तेभ्यो ऽकरं नमः ॥

10.085.18

पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् ।
विश्वान्य् अन्यो भुवनाभिचष्ट ऋतूँर् अन्यो विदधज् जायते पुनः ॥

10.085.19

नवो-नवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् ।
भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ॥

10.085.20

सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनम् पत्ये वहतुं कृणुष्व ॥

10.085.21

उद् ईर्ष्वातः पतिवती ह्य् ए3षा विश्वावसुं नमसा गीर्भिर् ईळे ।
अन्याम् इच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥

10.085.22

उद् ईर्ष्वातो विश्वावसो नमसेळा महे त्वा ।
अन्याम् इच्छ प्रफर्व्य1ं सं जायाम् पत्या सृज ॥

10.085.23

अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।
सम् अर्यमा सम् भगो नो निनीयात् सं जास्पत्यं सुयमम् अस्तु देवाः ॥

10.085.24

प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः ।
ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टां त्वा सह पत्या दधामि ॥

10.085.25

प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् ।
यथेयम् इन्द्र मीढ्वः सुपुत्रा सुभगासति ॥

10.085.26

पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ॥

10.085.27

इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्व1ं सं सृजस्वाधा जिव्री विदथम् आ वदाथः ॥

10.085.28

नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते ।
एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ॥

10.085.29

परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु ।
कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम् ॥

10.085.30

अश्रीरा तनूर् भवति रुशती पापयामुया ।
पतिर् यद् वध्वो3 वाससा स्वम् अङ्गम् अभिधित्सते ॥

10.085.31

ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाद् अनु ।
पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ॥

10.085.32

मा विदन् परिपन्थिनो य आसीदन्ति दम्पती ।
सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ॥

10.085.33

सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत ।
सौभाग्यम् अस्यै दत्त्वायाथास्तं वि परेतन ॥

10.085.34

तृष्टम् एतत् कटुकम् एतद् अपाष्ठवद् विषवन् नैतद् अत्तवे ।
सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति ॥

10.085.35

आशसनं विशसनम् अथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥

10.085.36

गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर् यथासः ।
भगो अर्यमा सविता पुरंधिर् मह्यं त्वादुर् गार्हपत्याय देवाः ॥

10.085.37

ताम् पूषञ् छिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या3 वपन्ति ।
या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम शेपम् ॥

10.085.38

तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह ।
पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥

10.085.39

पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा ।
दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ॥

10.085.40

सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ॥

10.085.41

सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये ।
रयिं च पुत्राँश् चादाद् अग्निर् मह्यम् अथो इमाम् ॥

10.085.42

इहैव स्तम् मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् ।
क्रीळन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे ॥

10.085.43

आ नः प्रजां जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व् अर्यमा ।
अदुर्मङ्गलीः पतिलोकम् आ विश शं नो भव द्विपदे शं चतुष्पदे ॥

10.085.44

अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
वीरसूर् देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥

10.085.45

इमां त्वम् इन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
दशास्याम् पुत्रान् आ धेहि पतिम् एकादशं कृधि ॥

10.085.46

सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वाम् भव ।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥

10.085.47

सम् अञ्जन्तु विश्वे देवाः सम् आपो हृदयानि नौ ।
सम् मातरिश्वा सं धाता सम् उ देष्ट्री दधातु नौ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc