ऋग्वेद · अध्याय 10.084
त्वया मन्यो सरथम् आरुजन्तो हर्षमाणासो धृषिता मरुत्वः ।
तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥
अग्निर् इव मन्यो त्विषितः सहस्व सेनानीर् नः सहुरे हूत एधि ।
हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥
सहस्व मन्यो अभिमातिम् अस्मे रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् ।
उग्रं ते पाजो नन्व् आ रुरुध्रे वशी वशं नयस एकज त्वम् ॥
एको बहूनाम् असि मन्यव् ईळितो विशं-विशं युधये सं शिशाधि ।
अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥
विजेषकृद् इन्द्र इवानवब्रवो3 ऽस्माकम् मन्यो अधिपा भवेह ।
प्रियं ते नाम सहुरे गृणीमसि विद्मा तम् उत्सं यत आबभूथ ॥
आभूत्या सहजा वज्र सायक सहो बिभर्ष्य् अभिभूत उत्तरम् ।
क्रत्वा नो मन्यो सह मेद्य् एधि महाधनस्य पुरुहूत संसृजि ॥
संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं दत्तां वरुणश् च मन्युः ।
भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0