ऋग्वेद · अध्याय 10.083
यस् ते मन्यो ऽविधद् वज्र सायक सह ओजः पुष्यति विश्वम् आनुषक् ।
साह्याम दासम् आर्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥
मन्युर् इन्द्रो मन्युर् एवास देवो मन्युर् होता वरुणो जातवेदाः ।
मन्युं विश ईळते मानुषीर् याः पाहि नो मन्यो तपसा सजोषाः ॥
अभीहि मन्यो तवसस् तवीयान् तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्य् आ भरा त्वं नः ॥
त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर् भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहावान् अस्मास्व् ओजः पृतनासु धेहि ॥
अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर् जिहीळाहं स्वा तनूर् बलदेयाय मेहि ॥
अयं ते अस्म्य् उप मेह्य् अर्वाङ् प्रतीचीनः सहुरे विश्वधायः ।
मन्यो वज्रिन्न् अभि माम् आ ववृत्स्व हनाव दस्यूँर् उत बोध्य् आपेः ॥
अभि प्रेहि दक्षिणतो भवा मे ऽधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणम् मध्वो अग्रम् उभा उपांशु प्रथमा पिबाव ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0