ऋग्वेद · अध्याय 10.082
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नन्नमाने ।
यदेद् अन्ता अददृहन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥
विश्वकर्मा विमना आद् विहाया धाता विधाता परमोत संदृक् ।
तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ॥
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा एक एव तं सम्प्रश्नम् भुवना यन्त्य् अन्या ॥
त आयजन्त द्रविणं सम् अस्मा ऋषयः पूर्वे जरितारो न भूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥
परो दिवा पर एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति ।
कं स्विद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ।
अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥
न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरम् बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0