ऋग्वेद · अध्याय 10.081
य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः ।
स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराँ आ विवेश ॥
किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् ।
यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् ।
सम् बाहुभ्यां धमति सम् पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥
किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा ।
शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् ।
मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु ॥
वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0