ऋग्वेद · अध्याय 10.074
वसूनां वा चर्कृष इयक्षन् धिया वा यज्ञैर् वा रोदस्योः ।
अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥
हव एषाम् असुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् ।
चक्षाणा यत्र सुविताय देवा द्यौर् न वारेभिः कृणवन्त स्वैः ॥
इयम् एषाम् अमृतानां गीः सर्वताता ये कृपणन्त रत्नम् ।
धियं च यज्ञं च साधन्तस् ते नो धान्तु वसव्य1म् असामि ॥
आ तत् त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् ।
सकृत्स्व1ं ये पुरुपुत्राम् महीं सहस्रधाराम् बृहतीं दुदुक्षन् ॥
शचीव इन्द्रम् अवसे कृणुध्वम् अनानतं दमयन्तम् पृतन्यून् ।
ऋभुक्षणम् मघवानं सुवृक्तिम् भर्ता यो वज्रं नर्यम् पुरुक्षुः ॥
यद् वावान पुरुतमम् पुराषाळ् आ वृत्रहेन्द्रो नामान्य् अप्राः ।
अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0