भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.075

10.075.01

प्र सु व आपो महिमानम् उत्तमं कारुर् वोचाति सदने विवस्वतः ।
प्र सप्त-सप्त त्रेधा हि चक्रमुः प्र सृत्वरीणाम् अति सिन्धुर् ओजसा ॥

10.075.02

प्र ते ऽरदद् वरुणो यातवे पथः सिन्धो यद् वाजाँ अभ्य् अद्रवस् त्वम् ।
भूम्या अधि प्रवता यासि सानुना यद् एषाम् अग्रं जगताम् इरज्यसि ॥

10.075.03

दिवि स्वनो यतते भूम्योपर्य् अनन्तं शुष्मम् उद् इयर्ति भानुना ।
अभ्राद् इव प्र स्तनयन्ति वृष्टयः सिन्धुर् यद् एति वृषभो न रोरुवत् ॥

10.075.04

अभि त्वा सिन्धो शिशुम् इन् न मातरो वाश्रा अर्षन्ति पयसेव धेनवः ।
राजेव युध्वा नयसि त्वम् इत् सिचौ यद् आसाम् अग्रम् प्रवताम् इनक्षसि ॥

10.075.05

इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्य् आ ।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्य् आ सुषोमया ॥

10.075.06

तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या ।
त्वं सिन्धो कुभया गोमतीं क्रुमुम् मेहत्न्वा सरथं याभिर् ईयसे ॥

10.075.07

ऋजीत्य् एनी रुशती महित्वा परि ज्रयांसि भरते रजांसि ।
अदब्धा सिन्धुर् अपसाम् अपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥

10.075.08

स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती ।
ऊर्णावती युवतिः सीलमावत्य् उताधि वस्ते सुभगा मधुवृधम् ॥

10.075.09

सुखं रथं युयुजे सिन्धुर् अश्विनं तेन वाजं सनिषद् अस्मिन्न् आजौ ।
महान् ह्य् अस्य महिमा पनस्यते ऽदब्धस्य स्वयशसो विरप्शिनः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc