भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.073

10.073.01

जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ।
अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥

10.073.02

द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शंसेन वावृधुष् ट इन्द्रम् ।
अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त गर्भाः ॥

10.073.03

ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र ।
त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः ॥

10.073.04

समना तूर्णिर् उप यासि यज्ञम् आ नासत्या सख्याय वक्षि ।
वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर् मघानि ॥

10.073.05

मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् ।
आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमांसि ॥

10.073.06

सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो यथानः ।
ऋष्वैर् अगच्छः सखिभिर् निकामैः साकम् प्रतिष्ठा हृद्या जघन्थ ॥

10.073.07

त्वं जघन्थ नमुचिम् मखस्युं दासं कृण्वान ऋषये विमायम् ।
त्वं चकर्थ मनवे स्योनान् पथो देवत्राञ्जसेव यानान् ॥

10.073.08

त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ ।
अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश् चकर्थ ॥

10.073.09

चक्रं यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच् चच्छद्यात् ।
पृथिव्याम् अतिषितं यद् ऊधः पयो गोष्व् अदधा ओषधीषु ॥

10.073.10

अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् ।
मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥

10.073.11

वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः ।
अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अ1स्मान् निधयेव बद्धान् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc