ऋग्वेद · अध्याय 10.071
बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः ।
यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥
सक्तुम् इव तितüना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ॥
यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् ।
ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥
उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् ।
उतो त्वस्मै तन्व1ं वि सस्रे जायेव पत्य उशती सुवासाः ॥
उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि वाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलाम् अपुष्पाम् ॥
यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति ।
यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः ।
अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे ॥
इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः ।
त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ॥
सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति वाजिनाय ॥
ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0