भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.070

10.070.01

इमाम् मे अग्ने समिधं जुषस्वेळस् पदे प्रति हर्या घृताचीम् ।
वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो देवयज्या ॥

10.070.02

आ देवानाम् अग्रयावेह यातु नराशंसो विश्वरूपेभिर् अश्वैः ।
ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥

10.070.03

शश्वत्तमम् ईळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् ।
वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता ॥

10.070.04

वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्व् अस्मे ।
अहेळता मनसा देव बर्हिर् इन्द्रज्येष्ठाँ उशतो यक्षि देवान् ॥

10.070.05

दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् ।
उशतीर् द्वारो महिना महद्भिर् देवं रथं रथयुर् धारयध्वम् ॥

10.070.06

देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ ।
आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥

10.070.07

ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे ।
पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम् ॥

10.070.08

तिस्रो देवीर् बर्हिर् इदं वरीय आ सीदत चकृमा वः स्योनम् ।
मनुष्वद् यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्त ॥

10.070.09

देव त्वष्टर् यद् ध चारुत्वम् आनड् यद् अङ्गिरसाम् अभवः सचाभूः ।
स देवानाम् पाथ उप प्र विद्वाँ उशन् यक्षि द्रविणोदः सुरत्नः ॥

10.070.10

वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि विद्वान् ।
स्वदाति देवः कृणवद् धवींष्य् अवतां द्यावापृथिवी हवम् मे ॥

10.070.11

आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् ।
सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc