ऋग्वेद · अध्याय 10.072
देवानां नु वयं जाना प्र वोचाम विपन्यया ।
उक्थेषु शस्यमानेषु यः पश्याद् उत्तरे युगे ॥
ब्रह्मणस् पतिर् एता सं कर्मार इवाधमत् ।
देवानाम् पूर्व्ये युगे ऽसतः सद् अजायत ॥
देवानां युगे प्रथमे ऽसतः सद् अजायत ।
तद् आशा अन्व् अजायन्त तद् उत्तानपदस् परि ॥
भूर् जज्ञ उत्तानपदो भुव आशा अजायन्त ।
अदितेर् दक्षो अजायत दक्षाद् व् अदितिः परि ॥
अदितिर् ह्य् अजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्व् अजायन्त भद्रा अमृतबन्धवः ॥
यद् देवा अदः सलिले सुसंरब्धा अतिष्ठत ।
अत्रा वो नृत्यताम् इव तीव्रो रेणुर् अपायत ॥
यद् देवा यतयो यथा भुवनान्य् अपिन्वत ।
अत्रा समुद्र आ गूळ्हम् आ सूर्यम् अजभर्तन ॥
अष्टौ पुत्रासो अदितेर् ये जातास् तन्व1स् परि ।
देवाँ उप प्रैत् सप्तभिः परा मार्ताण्डम् आस्यत् ॥
सप्तभिः पुत्रैर् अदितिर् उप प्रैत् पूर्व्यं युगम् ।
प्रजायै मृत्यवे त्वत् पुनर् मार्ताण्डम् आभरत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0