भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.069

10.069.01

भद्रा अग्नेर् वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः ।
यद् ईं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥

10.069.02

घृतम् अग्नेर् वध्र्यश्वस्य वर्धनं घृतम् अन्नं घृतम् व् अस्य मेदनम् ।
घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥

10.069.03

यत् ते मनुर् यद् अनीकं सुमित्रः समीधे अग्ने तद् इदं नवीयः ।
स रेवच् छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥

10.069.04

यं त्वा पूर्वम् ईळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व ।
स नः स्तिपा उत भवा तनूपा दात्रं रक्षस्व यद् इदं ते अस्मे ॥

10.069.05

भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीद् अभिमातिर् जनानाम् ।
शूर इव धृष्णुश् च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥

10.069.06

सम् अज्र्या पर्वत्या3 वसूनि दासा वृत्राण्य् आर्या जिगेथ ।
शूर इव धृष्णुश् च्यवनो जनानां त्वम् अग्ने पृतनायूँर् अभि ष्याः ॥

10.069.07

दीर्घतन्तुर् बृहदुक्षायम् अग्निः सहस्रस्तरीः शतनीथ ऋभ्वा ।
द्युमान् द्युमत्सु नृभिर् मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥

10.069.08

त्वे धेनुः सुदुघा जातवेदो ऽसश्चतेव समना सबर्धुक् ।
त्वं नृभिर् दक्षिणावद्भिर् अग्ने सुमित्रेभिर् इध्यसे देवयद्भिः ॥

10.069.09

देवाश् चित् ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् ।
यत् सम्पृच्छम् मानुषीर् विश आयन् त्वं नृभिर् अजयस् त्वावृधेभिः ॥

10.069.10

पितेव पुत्रम् अबिभर् उपस्थे त्वाम् अग्ने वध्र्यश्वः सपर्यन् ।
जुषाणो अस्य समिधं यविष्ठोत पूर्वाँ अवनोर् व्राधतश् चित् ॥

10.069.11

शश्वद् अग्निर् वध्र्यश्वस्य शत्रून् नृभिर् जिगाय सुतसोमवद्भिः ।
समनं चिद् अदहश् चित्रभानो ऽव व्राधन्तम् अभिनद् वृधश् चित् ॥

10.069.12

अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः ।
स नो अजामीँर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc