भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.067

10.067.01

इमां धियं सप्तशीर्ष्णीम् पिता न ऋतप्रजाताम् बृहतीम् अविन्दत् ।
तुरीयं स्विज् जनयद् विश्वजन्यो ऽयास्य उक्थम् इन्द्राय शंसन् ॥

10.067.02

ऋतं शंसन्त ऋजु दीध्याना दिवस् पुत्रासो असुरस्य वीराः ।
विप्रम् पदम् अङ्गिरसो दधाना यज्ञस्य धाम प्रथमम् मनन्त ॥

10.067.03

हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् ।
बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वाँ अगायत् ॥

10.067.04

अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ ।
बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः ॥

10.067.05

विभिद्या पुरं शयथेम् अपाचीं निस् त्रीणि साकम् उदधेर् अकृन्तत् ।
बृहस्पतिर् उषसं सूर्यं गाम् अर्कं विवेद स्तनयन्न् इव द्यौः ॥

10.067.06

इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
स्वेदाञ्जिभिर् आशिरम् इच्छमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥

10.067.07

स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः ।
ब्रह्मणस् पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्य् आनट् ॥

10.067.08

ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
बृहस्पतिर् मिथोअवद्यपेभिर् उद् उस्रिया असृजत स्वयुग्भिः ॥

10.067.09

तं वर्धयन्तो मतिभिः शिवाभिः सिंहम् इव नानदतं सधस्थे ।
बृहस्पतिं वृषणं शूरसातौ भरे-भरे अनु मदेम जिष्णुम् ॥

10.067.10

यदा वाजम् असनद् विश्वरूपम् आ द्याम् अरुक्षद् उत्तराणि सद्म ।
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिर् आसा ॥

10.067.11

सत्याम् आशिषं कृणुता वयोधै कीरिं चिद् ध्य् अवथ स्वेभिर् एवैः ।
पश्चा मृधो अप भवन्तु विश्वास् तद् रोदसी शृणुतं विश्वमिन्वे ॥

10.067.12

इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानम् अभिनद् अर्बुदस्य ।
अहन्न् अहिम् अरिणात् सप्त सिन्धून् देवैर् द्यावापृथिवी प्रावतं नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc