भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.066

10.066.01

देवान् हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः ।
ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥

10.066.02

इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागम् आनशुः ।
मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥

10.066.03

इन्द्रो वसुभिः परि पातु नो गयम् आदित्यैर् नो अदितिः शर्म यच्छतु ।
रुद्रो रुद्रेभिर् देवो मृळयाति नस् त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥

10.066.04

अदितिर् द्यावापृथिवी ऋतम् महद् इन्द्राविष्णू मरुतः स्वर् बृहत् ।
देवाँ आदित्याँ अवसे हवामहे वसून् रुद्रान् सवितारं सुदंससम् ॥

10.066.05

सरस्वान् धीभिर् वरुणो धृतव्रतः पूषा विष्णुर् महिमा वायुर् अश्विना ।
ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन् त्रिवरूथम् अंहसः ॥

10.066.06

वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः ।
वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥

10.066.07

अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे ।
याव् ईजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥

10.066.08

धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणाम् अभिश्रियः ।
अग्निहोतार ऋतसापो अद्रुहो ऽपो असृजन्न् अनु वृत्रतूर्ये ॥

10.066.09

द्यावापृथिवी जनयन्न् अभि व्रताप ओषधीर् वनिनानि यज्ञिया ।
अन्तरिक्षं स्व1र् आ पप्रुर् ऊतये वशं देवासस् तन्वी3 नि मामृजुः ॥

10.066.10

धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः ।
आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर् वाजिनो यन्तु मे हवम् ॥

10.066.11

समुद्रः सिन्धू रजो अन्तरिक्षम् अज एकपात् तनयित्नुर् अर्णवः ।
अहिर् बुध्न्यः शृणवद् वचांसि मे विश्वे देवास उत सूरयो मम ॥

10.066.12

स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञम् प्र णयत साधुया ।
आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥

10.066.13

दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थाम् अन्व् एमि साधुया ।
क्षेत्रस्य पतिम् प्रतिवेशम् ईमहे विश्वान् देवाँ अमृताँ अप्रयुच्छतः ॥

10.066.14

वसिष्ठासः पितृवद् वाचम् अक्रत देवाँ ईळाना ऋषिवत् स्वस्तये ।
प्रीता इव ज्ञातयः कामम् एत्यास्मे देवासो ऽव धूनुता वसु ॥

10.066.15

देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc