ऋग्वेद · अध्याय 10.068
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अ1र्का अनावन् ॥
सं गोभिर् आङ्गिरसो नक्षमाणो भग इवेद् अर्यमणं निनाय ।
जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँर् इवाजौ ॥
साध्वर्या अतिथिनीर् इषिराः स्पार्हाः सुवर्णा अनवद्यरूपाः ।
बृहस्पतिः पर्वतेभ्यो वितूर्या निर् गा ऊपे यवम् इव स्थिविभ्यः ॥
आप्रुषायन् मधुन ऋतस्य योनिम् अवक्षिपन्न् अर्क उल्काम् इव द्योः ।
बृहस्पतिर् उद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचम् बिभेद ॥
अप ज्योतिषा तमो अन्तरिक्षाद् उद्नः शीपालम् इव वात आजत् ।
बृहस्पतिर् अनुमृश्या वलस्याभ्रम् इव वात आ चक्र आ गाः ॥
यदा वलस्य पीयतो जसुम् भेद् बृहस्पतिर् अग्नितपोभिर् अर्कैः ।
दद्भिर् न जिह्वा परिविष्टम् आदद् आविर् निधीँर् अकृणोद् उस्रियाणाम् ॥
बृहस्पतिर् अमत हि त्यद् आसां नाम स्वरीणां सदने गुहा यत् ।
आण्डेव भित्त्वा शकुनस्य गर्भम् उद् उस्रियाः पर्वतस्य त्मनाजत् ॥
अश्नापिनद्धम् मधु पर्य् अपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।
निष् टज् जभार चमसं न वृक्षाद् बृहस्पतिर् विरवेणा विकृत्य ॥
सोषाम् अविन्दत् स स्व1ः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
बृहस्पतिर् गोवपुषो वलस्य निर् मज्जानं न पर्वणो जभार ॥
हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद् वलो गाः ।
अनानुकृत्यम् अपुनश् चकार यात् सूर्यामासा मिथ उच्चरातः ॥
अभि श्यावं न कृशनेभिर् अश्वं नक्षत्रेभिः पितरो द्याम् अपिंशन् ।
रात्र्यां तमो अदधुर् ज्योतिर् अहन् बृहस्पतिर् भिनद् अद्रिं विदद् गाः ॥
इदम् अकर्म नमो अभ्रियाय यः पूर्वीर् अन्व् आनोनवीति ।
बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर् नो वयो धात् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0