भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.064

10.064.01

कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम् मनामहे ।
को मृळाति कतमो नो मयस् करत् कतम ऊती अभ्य् आ ववर्तति ॥

10.064.02

क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्य् आ दिशः ।
न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥

10.064.03

नरा वा शंसम् पूषणम् अगोह्यम् अग्निं देवेद्धम् अभ्य् अर्चसे गिरा ।
सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातम् उषसम् अक्तुम् अश्विना ॥

10.064.04

कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते सुवृक्तिभिः ।
अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो3 हवीमनि ॥

10.064.05

दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि ।
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥

10.064.06

ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाताव् इव त्मना महो ये धनं समिथेषु जभ्रिरे ॥

10.064.07

प्र वो वायुं रथयुजम् पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम् ।
ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥

10.064.08

त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् पर्वताँ अग्निम् ऊतये ।
कृशानुम् अस्तॄन् तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥

10.064.09

सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा यन्तु वक्षणीः ।
देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो अर्चत ॥

10.064.10

उत माता बृहद्दिवा शृणोतु नस् त्वष्टा देवेभिर् जनिभिः पिता वचः ।
ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शंसः शशमानस्य पातु नः ॥

10.064.11

रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणाम् मरुताम् उपस्तुतिः ।
गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इळया सचेमहि ॥

10.064.12

याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र यूयम् ।
ताम् पीपयत पयसेव धेनुं कुविद् गिरो अधि रथे वहाथ ॥

10.064.13

कुविद् अङ्ग प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो बुबोधथ ।
नाभा यत्र प्रथमं संनसामहे तत्र जामित्वम् अदितिर् दधातु नः ॥

10.064.14

ते हि द्यावापृथिवी मातरा मही देवी देवाञ् जन्मना यज्ञिये इतः ।
उभे बिभृत उभयम् भरीमभिः पुरू रेतांसि पितृभिश् च सिञ्चतः ॥

10.064.15

वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः पनीयसी ।
ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर् मनीषिणः ॥

10.064.16

एवा कविस् तुवीरवाँ ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः ।
उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म ॥

10.064.17

एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc