भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.065

10.065.01

अग्निर् इन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ।
आदित्या विष्णुर् मरुतः स्वर् बृहत् सोमो रुद्रो अदितिर् ब्रह्मणस् पतिः ॥

10.065.02

इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा3 समोकसा ।
अन्तरिक्षम् मह्य् आ पप्रुर् ओजसा सोमो घृतश्रीर् महिमानम् ईरयन् ॥

10.065.03

तेषां हि मह्ना महताम् अनर्वणां स्तोमाँ इयर्म्य् ऋतज्ञा ऋतावृधाम् ।
ये अप्सवम् अर्णवं चित्रराधसस् ते नो रासन्ताम् महये सुमित्र्याः ॥

10.065.04

स्वर्णरम् अन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुर् ओजसा ।
पृक्षा इव महयन्तः सुरातयो देवाः स्तवन्ते मनुषाय सूरयः ॥

10.065.05

मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः ।
ययोर् धाम धर्मणा रोचते बृहद् ययोर् उभे रोदसी नाधसी वृतौ ॥

10.065.06

या गौर् वर्तनिम् पर्येति निष्कृतम् पयो दुहाना व्रतनीर् अवारतः ।
सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद् धविषा विवस्वते ॥

10.065.07

दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते ।
द्यां स्कभित्व्य् अ1प आ चक्रुर् ओजसा यज्ञं जनित्वी तन्वी3 नि मामृजुः ॥

10.065.08

परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा ।
द्यावापृथिवी वरुणाय सव्रते घृतवत् पयो महिषाय पिन्वतः ॥

10.065.09

पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा ।
देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥

10.065.10

त्वष्टारं वायुम् ऋभवो य ओहते दैव्या होतारा उषसं स्वस्तये ।
बृहस्पतिं वृत्रखादं सुमेधसम् इन्द्रियं सोमं धनसा उ ईमहे ॥

10.065.11

ब्रह्म गाम् अश्वं जनयन्त ओषधीर् वनस्पतीन् पृथिवीम् पर्वताँ अपः ।
सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥

10.065.12

भुज्युम् अंहसः पिपृथो निर् अश्विना श्यावम् पुत्रं वध्रिमत्या अजिन्वतम् ।
कमद्युवं विमदायोहथुर् युवं विष्णाप्व1ं विश्वकायाव सृजथः ॥

10.065.13

पावीरवी तन्यतुर् एकपाद् अजो दिवो धर्ता सिन्धुर् आपः समुद्रियः ।
विश्वे देवासः शृणवन् वचांसि मे सरस्वती सह धीभिः पुरंध्या ॥

10.065.14

विश्वे देवाः सह धीभिः पुरंध्या मनोर् यजत्रा अमृता ऋतज्ञाः ।
रातिषाचो अभिषाचः स्वर्विदः स्व1र् गिरो ब्रह्म सूक्तं जुषेरत ॥

10.065.15

देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc