भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.063

10.063.01

परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा विवस्वतः ।
ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥

10.063.02

विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः ।
ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम् ॥

10.063.03

येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः ।
उक्थशुष्मान् वृषभरान् स्वप्नसस् ताँ आदित्याँ अनु मदा स्वस्तये ॥

10.063.04

नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम् आनशुः ।
ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥

10.063.05

सम्राजो ये सुवृधो यज्ञम् आययुर् अपरिह्वृता दधिरे दिवि क्षयम् ।
ताँ आ विवास नमसा सुवृक्तिभिर् महो आदित्याँ अदितिं स्वस्तये ॥

10.063.06

को वः स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन ।
को वो ऽध्वरं तुविजाता अरं करद् यो नः पर्षद् अत्य् अंहः स्वस्तये ॥

10.063.07

येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा सप्त होतृभिः ।
त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥

10.063.08

य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश् च मन्तवः ।
ते नः कृताद् अकृताद् एनसस् पर्य् अद्या देवासः पिपृता स्वस्तये ॥

10.063.09

भरेष्व् इन्द्रं सुहवं हवामहे ऽंहोमुचं सुकृतं दैव्यं जनम् ।
अग्निम् मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥

10.063.10

सुत्रामाणम् पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥

10.063.11

विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः ।
सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥

10.063.12

अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम् अघायतः ।
आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये ॥

10.063.13

अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते धर्मणस् परि ।
यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता स्वस्तये ॥

10.063.14

यं देवासो ऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने ।
प्रातर्यावाणं रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा स्वस्तये ॥

10.063.15

स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अ1प्सु वृजने स्वर्वति ।
स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥

10.063.16

स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति ।
सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥

10.063.17

एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी ।
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc