भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.061

10.061.01

इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ ।
क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन् ॥

10.061.02

स इद् दानाय दभ्याय वन्वञ् च्यवानः सूदैर् अमिमीत वेदिम् ।
तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥

10.061.03

मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥

10.061.04

कृष्णा यद् गोष्व् अरुणीषु सीदद् दिवो नपाताश्विना हुवे वाम् ।
वीतम् मे यज्ञम् आ गतम् मे अन्नं ववन्वांसा नेषम् अस्मृतध्रू ॥

10.061.05

प्रथिष्ट यस्य वीरकर्मम् इष्णद् अनुष्ठितं नु नर्यो अपौहत् ।
पुनस् तद् आ वृहति यत् कनाया दुहितुर् आ अनुभृतम् अनर्वा ॥

10.061.06

मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि युवत्याम् ।
मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥

10.061.07

पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो नि षिञ्चत् ।
स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर् अतक्षन् ॥

10.061.08

स ईं वृषा न फेनम् अस्यद् आजौ स्मद् आ परैद् अप दभ्रचेताः ।
सरत् पदा न दक्षिणा परावृङ् न ता नु मे पृशन्यो जगृभ्रे ॥

10.061.09

मक्षू न वह्निः प्रजाया उपब्दिर् अग्निं न नग्न उप सीदद् ऊधः ।
सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥

10.061.10

मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिम् अग्मन् ।
द्विबर्हसो य उप गोपम् आगुर् अदक्षिणासो अच्युता दुदुक्षन् ॥

10.061.11

मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतम् इत् तुरण्यन् ।
शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥

10.061.12

पश्वा यत् पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः ।
वसोर् वसुत्वा कारवो ऽनेहा विश्वं विवेष्टि द्रविणम् उप क्षु ॥

10.061.13

तद् इन् न्व् अस्य परिषद्वानो अग्मन् पुरू सदन्तो नार्षदम् बिभित्सन् ।
वि शुष्णस्य संग्रथितम् अनर्वा विदत् पुरुप्रजातस्य गुहा यत् ॥

10.061.14

भर्गो ह नामोत यस्य देवाः स्व1र् ण ये त्रिषधस्थे निषेदुः ।
अग्निर् ह नामोत जातवेदाः श्रुधी नो होतर् ऋतस्य होताध्रुक् ॥

10.061.15

उत त्या मे रौद्राव् अर्चिमन्ता नासत्याव् इन्द्र गूर्तये यजध्यै ।
मनुष्वद् वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥

10.061.16

अयं स्तुतो राजा वन्दि वेधा अपश् च विप्रस् तरति स्वसेतुः ।
स कक्षीवन्तं रेजयत् सो अग्निं नेमिं न चक्रम् अर्वतो रघुद्रु ॥

10.061.17

स द्विबन्धुर् वैतरणो यष्टा सबर्धुं धेनुम् अस्वं दुहध्यै ।
सं यन् मित्रावरुणा वृञ्ज उक्थैर् ज्येष्ठेभिर् अर्यमणं वरूथैः ॥

10.061.18

तद्बन्धुः सूरिर् दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन् ।
सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद् आस ॥

10.061.19

इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः ।
द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ॥

10.061.20

अधासु मन्द्रो अरतिर् विभावाव स्यति द्विवर्तनिर् वनेषाट् ।
ऊर्ध्वा यच् छ्रेणिर् न शिशुर् दन् मक्षू स्थिरं शेवृधं सूत माता ॥

10.061.21

अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित् परेयुः ।
श्रुधि त्वं सुद्रविणो नस् त्वं याळ् आश्वघ्नस्य वावृधे सूनृताभिः ॥

10.061.22

अध त्वम् इन्द्र विद्ध्य् अ1स्मान् महो राये नृपते वज्रबाहुः ।
रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ ॥

10.061.23

अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः ।
विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान् ॥

10.061.24

अधा न्व् अस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तद् ऊ नु ।
सरण्युर् अस्य सूनुर् अश्वो विप्रश् चासि श्रवसश् च सातौ ॥

10.061.25

युवोर् यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् ।
विश्वत्र यस्मिन्न् आ गिरः समीचीः पूर्वीव गातुर् दाशत् सूनृतायै ॥

10.061.26

स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः ।
वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस उस्रियायाः ॥

10.061.27

त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।
ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc