भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.062

10.062.01

ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यम् अमृतत्वम् आनश ।
तेभ्यो भद्रम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

10.062.02

य उदाजन् पितरो गोमयं वस्व् ऋतेनाभिन्दन् परिवत्सरे वलम् ।
दीर्घायुत्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

10.062.03

य ऋतेन सूर्यम् आरोहयन् दिव्य् अप्रथयन् पृथिवीम् मातरं वि ।
सुप्रजास्त्वम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

10.062.04

अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस् तच् छृणोतन ।
सुब्रह्मण्यम् अङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

10.062.05

विरूपास इद् ऋषयस् त इद् गम्भीरवेपसः ।
ते अङ्गिरसः सूनवस् ते अग्नेः परि जज्ञिरे ॥

10.062.06

ये अग्नेः परि जज्ञिरे विरूपासो दिवस् परि ।
नवग्वो नु दशग्वो अङ्गिरस्तमः सचा देवेषु मंहते ॥

10.062.07

इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तम् अश्विनम् ।
सहस्रम् मे ददतो अष्टकर्ण्य1ः श्रवो देवेष्व् अक्रत ॥

10.062.08

प्र नूनं जायताम् अयम् मनुस् तोक्मेव रोहतु ।
यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥

10.062.09

न तम् अश्नोति कश् चन दिव इव सान्व् आरभम् ।
सावर्ण्यस्य दक्षिणा वि सिन्धुर् इव पप्रथे ॥

10.062.10

उत दासा परिविषे स्मद्दिष्टी गोपरीणसा ।
यदुस् तुर्वश् च मामहे ॥

10.062.11

सहस्रदा ग्रामणीर् मा रिषन् मनुः सूर्येणास्य यतमानैतु दक्षिणा ।
सावर्णेर् देवाः प्र तिरन्त्व् आयुर् यस्मिन्न् अश्रान्ता असनाम वाजम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc