भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.060

10.060.01

आ जनं त्वेषसंदृशम् माहीनानाम् उपस्तुतम् ।
अगन्म बिभ्रतो नमः ॥

10.060.02

असमातिं नितोशनं त्वेषं निययिनं रथम् ।
भजेरथस्य सत्पतिम् ॥

10.060.03

यो जनान् महिषाँ इवातितस्थौ पवीरवान् ।
उतापवीरवान् युधा ॥

10.060.04

यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते ।
दिवीव पञ्च कृष्टयः ॥

10.060.05

इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।
दिवीव सूर्यं दृशे ॥

10.060.06

अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता ।
पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः ॥

10.060.07

अयम् मातायम् पितायं जीवातुर् आगमत् ।
इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि ॥

10.060.08

यथा युगं वरत्रया नह्यन्ति धरुणाय कम् ।
एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥

10.060.09

यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् ।
एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥

10.060.10

यमाद् अहं वैवस्वतात् सुबन्धोर् मन आभरम् ।
जीवातवे न मृत्यवे ऽथो अरिष्टतातये ॥

10.060.11

न्य1ग् वातो ऽव वाति न्यक् तपति सूर्यः ।
नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ॥

10.060.12

अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः ।
अयम् मे विश्वभेषजो ऽयं शिवाभिमर्शनः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc