ऋग्वेद · अध्याय 10.059
प्र तार्य् आयुः प्रतरं नवीयः स्थातारेव क्रतुमता रथस्य ।
अध च्यवान उत् तवीत्य् अर्थम् परातरं सु निरृतिर् जिहीताम् ॥
सामन् नु राये निधिमन् न्व् अन्नं करामहे सु पुरुध श्रवांसि ।
ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर् जिहीताम् ॥
अभी ष्व् अ1र्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो नाज्रान् ।
ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर् जिहीताम् ॥
मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम् उच्चरन्तम् ।
द्युभिर् हितो जरिमा सू नो अस्तु परातरं सु निरृतिर् जिहीताम् ॥
असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः ।
रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥
असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् ।
ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृळया नः स्वस्ति ॥
पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् ।
पुनर् नः सोमस् तन्वं ददातु पुनः पूषा पथ्या3ं या स्वस्तिः ॥
शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा ।
भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
अव द्वके अव त्रिका दिवश् चरन्ति भेषजा ।
क्षमा चरिष्ण्व् एककम् भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
सम् इन्द्रेरय गाम् अनड्वाहं य आवहद् उशीनराण्या अनः ।
भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0