भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.054

10.054.01

तां सु ते कीर्तिम् मघवन् महित्वा यत् त्वा भीते रोदसी अह्वयेताम् ।
प्रावो देवाँ आतिरो दासम् ओजः प्रजायै त्वस्यै यद् अशिक्ष इन्द्र ॥

10.054.02

यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।
मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ॥

10.054.03

क उ नु ते महिमनः समस्यास्मत् पूर्व ऋषयो ऽन्तम् आपुः ।
यन् मातरं च पितरं च साकम् अजनयथास् तन्व1ः स्वायाः ॥

10.054.04

चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति ।
त्वम् अङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ् चकर्थ ॥

10.054.05

त्वं विश्वा दधिषे केवलानि यान्य् आविर् या च गुहा वसूनि ।
कामम् इन् मे मघवन् मा वि तारीस् त्वम् आज्ञाता त्वम् इन्द्रासि दाता ॥

10.054.06

यो अदधाज् ज्योतिषि ज्योतिर् अन्तर् यो असृजन् मधुना सम् मधूनि ।
अध प्रियं शूषम् इन्द्राय मन्म ब्रह्मकृतो बृहदुक्थाद् अवाचि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc