भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.055

10.055.01

दूरे तन् नाम गुह्यम् पराचैर् यत् त्वा भीते अह्वयेतां वयोधै ।
उद् अस्तभ्नाः पृथिवीं द्याम् अभीके भ्रातुः पुत्रान् मघवन् तित्विषाणः ॥

10.055.02

महत् तन् नाम गुह्यम् पुरुस्पृग् येन भूतं जनयो येन भव्यम् ।
प्रत्नं जातं ज्योतिर् यद् अस्य प्रियम् प्रियाः सम् अविशन्त पञ्च ॥

10.055.03

आ रोदसी अपृणाद् ओत मध्यम् पञ्च देवाँ ऋतुशः सप्त-सप्त ।
चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥

10.055.04

यद् उष औच्छः प्रथमा विभानाम् अजनयो येन पुष्टस्य पुष्टम् ।
यत् ते जामित्वम् अवरम् परस्या महन् महत्या असुरत्वम् एकम् ॥

10.055.05

विधुं दद्राणं समने बहूनां युवानं सन्तम् पलितो जगार ।
देवस्य पश्य काव्यम् महित्वाद्या ममार स ह्यः सम् आन ॥

10.055.06

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनाद् अनीळः ।
यच् चिकेत सत्यम् इत् तन् न मोघं वसु स्पार्हम् उत जेतोत दाता ॥

10.055.07

ऐभिर् ददे वृष्ण्या पौंस्यानि येभिर् औक्षद् वृत्रहत्याय वज्री ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्मम् उदजायन्त देवाः ॥

10.055.08

युजा कर्माणि जनयन् विश्वौजा अशस्तिहा विश्वमनास् तुराषाट् ।
पीत्वी सोमस्य दिव आ वृधानः शूरो निर् युधाधमद् दस्यून् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc