ऋग्वेद · अध्याय 10.053
यम् ऐच्छाम मनसा सो3 ऽयम् आगाद् यज्ञस्य विद्वान् परुषश् चिकित्वान् ।
स नो यक्षद् देवताता यजीयान् नि हि षत्सद् अन्तरः पूर्वो अस्मत् ॥
अराधि होता निषदा यजीयान् अभि प्रयांसि सुधितानि हि ख्यत् ।
यजामहै यज्ञियान् हन्त देवाँ ईळामहा ईड्याँ आज्येन ॥
साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् ।
स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥
तद् अद्य वाचः प्रथमम् मसीय येनासुराँ अभि देवा असाम ।
ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥
पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः ।
पृथिवी नः पार्थिवात् पात्व् अंहसो ऽन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥
तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥
अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत ।
अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्न् अभि प्रियम् ॥
अश्मन्वती रीयते सं रभध्वम् उत् तिष्ठत प्र तरता सखायः ।
अत्रा जहाम ये असन्न् अशेवाः शिवान् वयम् उत् तरेमाभि वाजान् ॥
त्वष्टा माया वेद् अपसाम् अपस्तमो बिभ्रत् पात्रा देवपानानि शंतमा ।
शिशीते नूनम् परशुं स्वायसं येन वृश्चाद् एतशो ब्रह्मणस् पतिः ॥
सतो नूनं कवयः सं शिशीत वाशीभिर् याभिर् अमृताय तक्षथ ।
विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वम् आनशुः ॥
गर्भे योषाम् अदधुर् वत्सम् आसन्य् अपीच्येन मनसोत जिह्वया ।
स विश्वाहा सुमना योग्या अभि सिषासनिर् वनते कार इज् जितिम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0