ऋग्वेद · अध्याय 10.052
विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन् निषद्य ।
प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यम् आ वो वहानि ॥
अहं होता न्य् असीदं यजीयान् विश्वे देवा मरुतो मा जुनन्ति ।
अहर्-अहर् अश्विनाध्वर्यवं वाम् ब्रह्मा समिद् भवति साहुतिर् वाम् ॥
अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः ।
अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ॥
मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् ।
अग्निर् विद्वान् यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥
आ वो यक्ष्य् अमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि ।
आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना जयाति ॥
त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् ।
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0