ऋग्वेद · अध्याय 10.046
प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे ।
दधिर् यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥
इमं विधन्तो अपां सधस्थे पशुं न नष्टम् पदैर् अनु ग्मन् ।
गुहा चतन्तम् उशिजो नमोभिर् इच्छन्तो धीरा भृगवो ऽविन्दन् ॥
इमं त्रितो भूर्य् अविन्दद् इच्छन् वैभूवसो मूर्धन्य् अघ्न्यायाः ।
स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति रोचनस्य ॥
मन्द्रं होतारम् उशिजो नमोभिः प्राञ्चं यज्ञं नेतारम् अध्वराणाम् ।
विशाम् अकृण्वन्न् अरतिम् पावकं हव्यवाहं दधतो मानुषेषु ॥
प्र भूर् जयन्तम् महां विपोधाम् मूरा अमूरम् पुरां दर्माणम् ।
नयन्तो गर्भं वनां धियं धुर् हिरिश्मश्रुं नार्वाणं धनर्चम् ॥
नि पस्त्यासु त्रितः स्तभूयन् परिवीतो योनौ सीदद् अन्तः ।
अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैर् ईयते नॄन् ॥
अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥
प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः ।
तम् आयवः शुचयन्तम् पावकम् मन्द्रं होतारं दधिरे यजिष्ठम् ॥
द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यं सहोभिः ।
ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम् ॥
यं त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो यजत्रम् ।
स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सं हि पूर्वीः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0