ऋग्वेद · अध्याय 10.047
जगृभ्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।
विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् ।
चर्कृत्यं शंस्यम् भूरिवारम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
सुब्रह्माणं देववन्तम् बृहन्तम् उरुं गभीरम् पृथुबुध्नम् इन्द्र ।
श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् ।
दस्युहनम् पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र ।
भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
प्र सप्तगुम् ऋतधीतिं सुमेधाम् बृहस्पतिम् मतिर् अच्छा जिगाति ।
य आङ्गिरसो नमसोपसद्यो ऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥
वनीवानो मम दूतास इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयानाः ।
हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
यत् त्वा यामि दद्धि तन् न इन्द्र बृहन्तं क्षयम् असमं जनानाम् ।
अभि तद् द्यावापृथिवी गृणीताम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0