भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.045

10.045.01

दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः ।
तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥

10.045.02

विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥

10.045.03

समुद्रे त्वा नृमणा अप्स्व् अ1न्तर् नृचक्षा ईधे दिवो अग्न ऊधन् ।
तृतीये त्वा रजसि तस्थिवांसम् अपाम् उपस्थे महिषा अवर्धन् ॥

10.045.04

अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥

10.045.05

श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥

10.045.06

विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज् जायमानः ।
वीळुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥

10.045.07

उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि ।
इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥

10.045.08

दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥

10.045.09

यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने ।
प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥

10.045.10

आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज शस्यमाने ।
प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥

10.045.11

त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥

10.045.12

अस्ताव्य् अग्निर् नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc