भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.039

10.039.01

यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो हविष्मता ।
शश्वत्तमासस् तम् उ वाम् इदं वयम् पितुर् न नाम सुहवं हवामहे ॥

10.039.02

चोदयतं सूनृताः पिन्वतं धिय उत् पुरंधीर् ईरयतं तद् उश्मसि ।
यशसम् भागं कृणुतं नो अश्विना सोमं न चारुम् मघवत्सु नस् कृतम् ॥

10.039.03

अमाजुरश् चिद् भवथो युवम् भगो ऽनाशोश् चिद् अवितारापमस्य चित् ।
अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा रुतस्य चित् ॥

10.039.04

युवं च्यवानं सनयं यथा रथम् पुनर् युवानं चरथाय तक्षथुः ।
निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वां सवनेषु प्रवाच्या ॥

10.039.05

पुराणा वां वीर्या3 प्र ब्रवा जने ऽथो हासथुर् भिषजा मयोभुवा ।
ता वां नु नव्याव् अवसे करामहे ऽयं नासत्या श्रद् अरिर् यथा दधत् ॥

10.039.06

इयं वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् ।
अनापिर् अज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेर् अव स्पृतम् ॥

10.039.07

युवं रथेन विमदाय शुन्ध्युवं न्य् ऊहथुः पुरुमित्रस्य योषणाम् ।
युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये ॥

10.039.08

युवं विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतं युवद् वयः ।
युवं वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवं सद्यो विश्पलाम् एतवे कृथः ॥

10.039.09

युवं ह रेभं वृषणा गुहा हितम् उद् ऐरयतम् ममृवांसम् अश्विना ।
युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥

10.039.10

युवं श्वेतम् पेदवे ऽश्विनाश्वं नवभिर् वाजैर् नवती च वाजिनम् ।
चर्कृत्यं ददथुर् द्रावयत्सखम् भगं न नृभ्यो हव्यम् मयोभुवम् ॥

10.039.11

न तं राजानाव् अदिते कुतश् चन नांहो अश्नोति दुरितं नकिर् भयम् ।
यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥

10.039.12

आ तेन यातम् मनसो जवीयसा रथं यं वाम् ऋभवश् चक्रुर् अश्विना ।
यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥

10.039.13

ता वर्तिर् यातं जयुषा वि पर्वतम् अपिन्वतं शयवे धेनुम् अश्विना ।
वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवं शचीभिर् ग्रसिताम् अमुञ्चतम् ॥

10.039.14

एतं वां स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम् ।
न्य् अमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc