भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.040

10.040.01

रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति ।
प्रातर्यावाणं विभ्वं विशे-विशे वस्तोर्-वस्तोर् वहमानं धिया शमि ॥

10.040.02

कुह स्विद् दोषा कुह वस्तोर् अश्विना कुहाभिपित्वं करतः कुहोषतुः ।
को वां शयुत्रा विधवेव देवरम् मर्यं न योषा कृणुते सधस्थ आ ॥

10.040.03

प्रातर् जरेथे जरणेव कापया वस्तोर्-वस्तोर् यजता गच्छथो गृहम् ।
कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥

10.040.04

युवाम् मृगेव वारणा मृगण्यवो दोषा वस्तोर् हविषा नि ह्वयामहे ।
युवं होत्राम् ऋतुथा जुह्वते नरेषं जनाय वहथः शुभस् पती ॥

10.040.05

युवां ह घोषा पर्य् अश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा ।
भूतम् मे अह्न उत भूतम् अक्तवे ऽश्वावते रथिने शक्तम् अर्वते ॥

10.040.06

युवं कवी ष्ठः पर्य् अश्विना रथं विशो न कुत्सो जरितुर् नशायथः ।
युवोर् ह मक्षा पर्य् अश्विना मध्व् आसा भरत निष्कृतं न योषणा ॥

10.040.07

युवं ह भुज्युं युवम् अश्विना वशं युवं शिञ्जारम् उशनाम् उपारथुः ।
युवो ररावा परि सख्यम् आसते युवोर् अहम् अवसा सुम्नम् आ चके ॥

10.040.08

युवं ह कृशं युवम् अश्विना शयुं युवं विधन्तं विधवाम् उरुष्यथः ।
युवं सनिभ्यः स्तनयन्तम् अश्विनाप व्रजम् ऊर्णुथः सप्तास्यम् ॥

10.040.09

जनिष्ट योषा पतयत् कनीनको वि चारुहन् वीरुधो दंसना अनु ।
आस्मै रीयन्ते निवनेव सिन्धवो ऽस्मा अह्ने भवति तत् पतित्वनम् ॥

10.040.10

जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घाम् अनु प्रसितिं दीधियुर् नरः ।
वामम् पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥

10.040.11

न तस्य विद्म तद् उ षु प्र वोचत युवा ह यद् युवत्याः क्षेति योनिषु ।
प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तद् उश्मसि ॥

10.040.12

आ वाम् अगन् सुमतिर् वाजिनीवसू न्य् अश्विना हृत्सु कामा अयंसत ।
अभूतं गोपा मिथुना शुभस् पती प्रिया अर्यम्णो दुर्याँ अशीमहि ॥

10.040.13

ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे ।
कृतं तीर्थं सुप्रपाणं शुभस् पती स्थाणुम् पथेष्ठाम् अप दुर्मतिं हतम् ॥

10.040.14

क्व स्विद् अद्य कतमास्व् अश्विना विक्षु दस्रा मादयेते शुभस् पती ।
क ईं नि येमे कतमस्य जग्मतुर् विप्रस्य वा यजमानस्य वा गृहम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc