ऋग्वेद · अध्याय 10.038
अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये ।
यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति दिद्यवो नृषाह्ये ॥
स नः क्षुमन्तं सदने व्य् ऊर्णुहि गोअर्णसं रयिम् इन्द्र श्रवाय्यम् ।
स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद् वसो कृधि ॥
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति ।
अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयं तान् वनुयाम संगमे ॥
यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये ।
तं विखादे सस्निम् अद्य श्रुतं नरम् अर्वाञ्चम् इन्द्रम् अवसे करामहे ॥
स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् ।
प्र मुञ्चस्व परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0