भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.034

10.034.01

प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर् मह्यम् अच्छान् ॥

10.034.02

न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यम् आसीत् ।
अक्षस्याहम् एकपरस्य हेतोर् अनुव्रताम् अप जायाम् अरोधम् ॥

10.034.03

द्वेष्टि श्वश्रूर् अप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् ।
अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥

10.034.04

अन्ये जायाम् परि मृशन्त्य् अस्य यस्यागृधद् वेदने वाज्य् अ1क्षः ।
पिता माता भ्रातर एनम् आहुर् न जानीमो नयता बद्धम् एतम् ॥

10.034.05

यद् आदीध्ये न दविषाण्य् एभिः परायद्भ्यो ऽव हीये सखिभ्यः ।
न्युप्ताश् च बभ्रवो वाचम् अक्रतँ एमीद् एषां निष्कृतं जारिणीव ॥

10.034.06

सभाम् एति कितवः पृच्छमानो जेष्यामीति तन्वा3 शूशुजानः ।
अक्षासो अस्य वि तिरन्ति कामम् प्रतिदीव्ने दधत आ कृतानि ॥

10.034.07

अक्षास इद् अङ्कुशिनो नितोदिनो निकृत्वानस् तपनास् तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥

10.034.08

त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।
उग्रस्य चिन् मन्यवे ना नमन्ते राजा चिद् एभ्यो नम इत् कृणोति ॥

10.034.09

नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं सहन्ते ।
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर् दहन्ति ॥

10.034.10

जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् ।
ऋणावा बिभ्यद् धनम् इच्छमानो ऽन्येषाम् अस्तम् उप नक्तम् एति ॥

10.034.11

स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् ।
पूर्वाह्णे अश्वान् युयुजे हि बभ्रून् सो अग्नेर् अन्ते वृषलः पपाद ॥

10.034.12

यो वः सेनानीर् महतो गणस्य राजा व्रातस्य प्रथमो बभूव ।
तस्मै कृणोमि न धना रुणध्मि दशाहम् प्राचीस् तद् ऋतं वदामि ॥

10.034.13

अक्षैर् मा दीव्यः कृषिम् इत् कृषस्व वित्ते रमस्व बहु मन्यमानः ।
तत्र गावः कितव तत्र जाया तन् मे वि चष्टे सवितायम् अर्यः ॥

10.034.14

मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु ।
नि वो नु मन्युर् विशताम् अरातिर् अन्यो बभ्रूणाम् प्रसितौ न्व् अस्तु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc