ऋग्वेद · अध्याय 10.033
प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणम् अन्तरेण ।
विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष आसीत् ॥
सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः ।
नि बाधते अमतिर् नग्नता जसुर् वेर् न वेवीयते मतिः ॥
मूषो न शिश्ना व्य् अदन्ति माध्यः स्तोतारं ते शतक्रतो ।
सकृत् सु नो मघवन्न् इन्द्र मृळयाधा पितेव नो भव ॥
कुरुश्रवणम् आवृणि राजानं त्रासदस्यवम् ।
मंहिष्ठं वाघताम् ऋषिः ॥
यस्य मा हरितो रथे तिस्रो वहन्ति साधुया ।
स्तवै सहस्रदक्षिणे ॥
यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।
क्षेत्रं न रण्वम् ऊचुषे ॥
अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि ।
पितुष् टे अस्मि वन्दिता ॥
यद् ईशीयामृतानाम् उत वा मर्त्यानाम् ।
जीवेद् इन् मघवा मम ॥
न देवानाम् अति व्रतं शतात्मा चन जीवति ।
तथा युजा वि वावृते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0