भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.035

10.035.01

अबुध्रम् उ त्य इन्द्रवन्तो अग्नयो ज्योतिर् भरन्त उषसो व्युष्टिषु ।
मही द्यावापृथिवी चेतताम् अपो ऽद्या देवानाम् अव आ वृणीमहे ॥

10.035.02

दिवस्पृथिव्योर् अव आ वृणीमहे मातॄन् सिन्धून् पर्वताञ् छर्यणावतः ।
अनागास्त्वं सूर्यम् उषासम् ईमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥

10.035.03

द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा ।
उषा उच्छन्त्य् अप बाधताम् अघं स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.04

इयं न उस्रा प्रथमा सुदेव्यं रेवत् सनिभ्यो रेवती व्य् उच्छतु ।
आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.05

प्र याः सिस्रते सूर्यस्य रश्मिभिर् ज्योतिर् भरन्तीर् उषसो व्युष्टिषु ।
भद्रा नो अद्य श्रवसे व्य् उच्छत स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.06

अनमीवा उषस आ चरन्तु न उद् अग्नयो जिहतां ज्योतिषा बृहत् ।
आयुक्षाताम् अश्विना तूतुजिं रथं स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.07

श्रेष्ठं नो अद्य सवितर् वरेण्यम् भागम् आ सुव स हि रत्नधा असि ।
रायो जनित्रीं धिषणाम् उप ब्रुवे स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.08

पिपर्तु मा तद् ऋतस्य प्रवाचनं देवानां यन् मनुष्या3 अमन्महि ।
विश्वा इद् उस्राः स्पळ् उद् एति सूर्यः स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.09

अद्वेषो अद्य बर्हिषः स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे ।
आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.10

आ नो बर्हिः सधमादे बृहद् दिवि देवाँ ईळे सादया सप्त होतॄन् ।
इन्द्रम् मित्रं वरुणं सातये भगं स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.11

त आदित्या आ गता सर्वतातये वृधे नो यज्ञम् अवता सजोषसः ।
बृहस्पतिम् पूषणम् अश्विना भगं स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.12

तन् नो देवा यच्छत सुप्रवाचनं छर्दिर् आदित्याः सुभरं नृपाय्यम् ।
पश्वे तोकाय तनयाय जीवसे स्वस्त्य् अ1ग्निं समिधानम् ईमहे ॥

10.035.13

विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो अस्मे ॥

10.035.14

यं देवासो ऽवथ वाजसातौ यं त्रायध्वे यम् पिपृथात्य् अंहः ।
यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc