भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.032

10.032.01

प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् वराँ अभि षु प्रसीदतः ।
अस्माकम् इन्द्र उभयं जुजोषति यत् सोम्यस्यान्धसो बुबोधति ॥

10.032.02

वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत ।
ये त्वा वहन्ति मुहुर् अध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधसः ॥

10.032.03

तद् इन् मे छन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम् पित्रोर् अधीयति ।
जाया पतिं वहति वग्नुना सुमत् पुंस इद् भद्रो वहतुः परिष्कृतः ॥

10.032.04

तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुं न धेनवः ।
माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः ॥

10.032.05

प्र वो ऽच्छा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति तुर्वणिः ।
जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥

10.032.06

निधीयमानम् अपगूळ्हम् अप्सु प्र मे देवानां व्रतपा उवाच ।
इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥

10.032.07

अक्षेत्रवित् क्षेत्रविदं ह्य् अप्राट् स प्रैति क्षेत्रविदानुशिष्टः ।
एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य् अञ्जसीनाम् ॥

10.032.08

अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः ।
एम् एनम् आप जरिमा युवानम् अहेळन् वसुः सुमना बभूव ॥

10.032.09

एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि ।
दान इद् वो मघवानः सो अस्त्व् अयं च सोमो हृदि यम् बिभर्मि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc